|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.191. अध्यायः 191
Mahabharata - Drona Parva - Chapter Topics
कृष्णेन युधिष्ठिरम्प्रति द्रोणजये तस्य शस्त्रन्यासस्य तत्रचाश्वत्थामवधश्रवणस्य हेतुत्वकथनम्॥ 1 ॥ भीमेनाश्वत्थामनाम्नि गजे निहते युधिष्ठिरेण कृष्णचोदनया द्रोणम्प्रति तद्विवक्षया अश्वत्थामा हत इति कथनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-191-0x(4773)(53891)
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत्।
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा॥ 7-191-1(53892)
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि।
नात्रसन्त रणे द्रोणत्सत्ववन्तो महारथाः॥ 7-191-2(53893)
युध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा।
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः॥ 7-191-3(53894)
तेषां तु च्छाद्यमानानां पाञ्चालानां समन्ततः।
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः॥ 7-191-4(53895)
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना।
उदीर्यमाणे द्रोणास्त्रे पाण़्डवान्भयमाविशत्॥ 7-191-5(53896)
दृष्ट्वाऽश्वनरयोधानां विपुलं च क्षयं युधि।
पाण़्डवेया महाराज नाशशंसुर्जयं तदा॥ 7-191-6(53897)
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित्।
समिद्धः शिशिरापाये दहन्कक्षमिवानलः॥ 7-191-7(53898)
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्।
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्॥ 7-191-8(53899)
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्।
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्॥ 7-191-9(53900)
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन।
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः॥ 7-191-10(53901)
न्यस्तशस्त्रस्तु सङ्गारमे शक्यो हन्तुं भवेन्नृभिः।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः।
यथा न संयुगे सर्वान्निहन्याद्रुक्मवाहनः॥ 7-191-11(53902)
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम।
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः॥ 7-191-12(53903)
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः।
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः॥ 7-191-13(53904)
ततो भीमो महाबाहुरनीकेषु महागजम्।
जघान गदया राजन्नश्वत्थामानमित्युत।
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः॥ 7-191-14(53905)
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे।
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह॥ 7-191-15(53906)
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्।
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा॥ 7-191-16(53907)
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम्।
मनसा सन्नागात्रोऽभूद्यथा सैकतमम्भसि॥ 7-191-17(53908)
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै।
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत॥ 7-191-18(53909)
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्।
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः॥ 7-191-19(53910)
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः।
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्॥ 7-191-20(53911)
तं विंशतिसहस्राणि पाञ्चालानां नरर्षभाः।
यथा चरन्तं सङ्ग्रामे सर्वतोऽवाकिरञ्छरैः॥ 7-191-21(53912)
शरैस्तैराचितं द्रोणं नापश्याम महारथम्।
भास्करं जलदै रुद्धं वर्षास्विव विशाम्पते॥ 7-191-22(53913)
विधूय तान्बाणगणान्पाञ्चालानां महारथः।
प्रादुश्चक्रे ततो द्रोणो ब्राह्ममस्त्रं परन्तपः॥ 7-191-23(53914)
वधाय तेषां शूराणां पाञ्चालानाममर्षितः।
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान्॥ 7-191-24(53915)
शिरांस्यापातयच्चापि पाञ्चालानां महामृधे।
तथैव परिघाकारान्बाहून्कनकभूषणान्॥ 7-191-25(53916)
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः।
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः॥ 7-191-26(53917)
कुञ्जराणां च पततां हयौघानां च भारत।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥ 7-191-27(53918)
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान्।
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्॥ 7-191-28(53919)
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्।
वसुदानस्य भल्लेन शिरः कायादपाहरत्॥ 7-191-29(53920)
पुनः पञ्चशतान्मात्स्यान्षट्सहस्रांश्च सृञ्जयान्।
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः॥ 7-191-30(53921)
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्।
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः॥ 7-191-31(53922)
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः।
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः॥ 7-191-32(53923)
सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः।
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः॥ 7-191-33(53924)
त एनमब्रुवन्सर्वे द्रोणमाहरवशोभिनम्।
अधर्मतः कृतं युद्धं समयो निधनस्य ते॥ 7-191-34(53925)
न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान्।
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि॥ 7-191-35(53926)
वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते॥ 7-191-36(53927)
त्यजायुधममोधेषो तिष्ठ वर्त्मनि शाश्वते।
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे॥ 7-191-37(53928)
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि।
यदेतदीदृशं विप्र कृतं कर्म न साधु तत्॥ 7-191-38(53929)
न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः।
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज॥ 7-191-39(53930)
इति तेषां वचः श्रुत्वा भीमसेनवचः स्मरन्।
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाऽभवत्॥ 7-191-40(53931)
सन्दिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्।
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः॥ 7-191-41(53932)
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्।
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन॥ 7-191-42(53933)
तस्मात्तं परिपप्रच्छ नान्यं कञ्छिद्द्विजर्षभः।
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे॥ 7-191-43(53934)
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधाम्पतिम्।
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्॥ 7-191-44(53935)
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः।
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति॥ 7-191-45(53936)
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः॥ 7-191-46(53937)
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्॥ 7-191-47(53938)
श्रुत्वैवं तु महाराज वधोपायं महात्मनः।
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः॥ 7-191-48(53939)
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः।
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्॥ 7-191-49(53940)
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति।
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः॥ 7-191-50(53941)
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः।
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्॥ 7-191-51(53942)
त्वयोक्ते नैव युध्येत जातु राजन्द्विजर्षभः।
सत्यवागिति लोकेऽस्मिन्भवान्ख्यातो जनाधिप॥ 7-191-52(53943)
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः।
भावित्वाच्च महाराज वक्तुं समुपचक्रमे॥ 7-191-53(53944)
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः।
`अश्वत्थामा हति शब्दमुच्चैश्चकार ह'।
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत॥ 7-191-54(53945)
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः।
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम्॥ 7-191-55(53946)
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः।
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत्॥ 7-191-56(53947)
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्।
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम्॥ 7-191-57(53948)
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च।
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः॥ ॥ 7-191-58(53949)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे एकनवत्यधिकशततमोऽध्यायः॥ 191 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-191-51 जयैषिण इत्यस्य गोविन्दवाक्यानीत्यत्रैकदेशे गोविन्देऽन्वयः॥ 5-191-191 एकनवत्यधिकशततमोऽध्यायः॥ 191 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|